श्रवणम्

2.33.8
प्र ब॒भ्रवे᳚ वृष॒भाय᳚ श्विती॒चे म॒हो म॒हीं सु᳚ष्टु॒तिमी᳚रयामि ।
न॒म॒स्या क᳚ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि᳚ त्वे॒षं रु॒द्रस्य॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ब॒भ्रवे᳚ । वृ॒ष॒भाय᳚ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒॑स्तु॒तिम् । ई॒र॒या॒मि॒ ।
न॒म॒स्य । क॒ल्म॒ली॒किन᳚म् । नमः᳚॑भिः । गृ॒णी॒मसि᳚ । त्वे॒षम् । रु॒द्रस्य᳚ । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बभ्रवेविश्वस्यभर्त्रेबभ्रुवर्णायवा वृषभायक्रामानांवर्षित्रे तद्वत्प्रसह्यकारिणेवा शितीचेश्वैत्यमञ्चते श्वितावर्णे औणादिकइन्प्रत्ययः शितीमञ्चतीति अञ्चतेरृत्विगित्यादिनाक्विन्प्रत्ययः चतुर्थ्येकव्चनेअच- इत्यकारलोपेचावितिदीर्घत्वम् उदात्तनिवृत्तिस्वरेणविभक्तेरुदात्तत्वम् एवं गुणविशिष्टायरुद्रायमहो- महींमहतोपिमहतींसुष्टुतिंशोभनस्तुतिंप्रेरयामि प्रकर्षेणोञ्जारयामि हेस्तोतः कल्मलीकिनं ज्वलतो- नामधेयमेतत् ज्वलन्तं कलयत्यपगमयतिमलमितिकल्मलीकंतेजः तद्वन्तंरुद्रं नमोभिर्नमस्कारैर्हविर्भि र्वानमस्यपूजय वयंच कलयत्यपगमयतिमलमितिकल्मलीकंतेजः तद्वन्तंरुद्रं नमोभिर्नमस्कारैर्हविर्भि- र्वानमस्यपूजय वयंच रुद्रस्यमहादेवस्यत्वेवंदीप्तंनामगृणीमसि गृणीमः संकीर्तयामः गॄशब्दे क्रैयादि- कः इदन्तोमसिः प्वादीनांह्रस्वः ॥ ८ ॥