श्रवणम्

2.33.10
अर्ह᳚न्बिभर्षि॒ साय᳚कानि॒ धन्वार्ह᳚न्नि॒ष्कं य᳚ज॒तं वि॒श्वरू᳚पम् ।
अर्ह᳚न्नि॒दं द᳚यसे॒ विश्व॒मभ्वं॒ न वा ओजी᳚यो रुद्र॒ त्वद᳚स्ति ॥
▶ पदपाठः (Word-by-word)
अर्ह᳚न् । बि॒भ॒र्षि॒ । साय᳚कानि । धन्व᳚ । अर्ह᳚न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्व॑रू᳚पम् ।
अर्ह᳚न् । इ॒दम् । द॒य॒से॒ । विश्व᳚म् । अभ्व᳚म् । न । वै । ओजी᳚यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरुद्र त्वं अर्हन् अर्होयोग्यएवसन् सायकानिशरान् धन्वधनुश्चबिभर्षिधारयसि तथाअर्हन्नेवयज- तंयजनीयंपूजनीयंविशरूपं बहुविधरूपयुक्तंनिष्कंहारंबिभर्षि तथाअर्हन्नेवइदंविश्वंसर्वंअभ्वं महन्ना- मैतत् अतिविस्तृतंजगत् दयसेरक्षसि देङ् रक्षणे हेरुद्र त्वत् त्वत् त्वत्तोन्यत् किंचित् ओजीयः ओज- स्वितरंबलवत्तरंनवाअस्ति नखलुविद्यते अतस्त्वमेवोक्तव्यापारेषुयोज्यइत्यर्थः ओजस् शब्दान्मत्व- र्थीयोविनिः अतआतिशायनिकइष्ठन् विन्मतोर्लुक् टेरितिटिलोपः ॥ १० ॥ प्रयाणेम्रुगस्यामनोज्ञावाचःश्रुत्वास्तुहिश्रुतमित्येतांजपेत् सूत्रितञ्च—स्तुहिश्रुतंगर्तसदंयुवानमि- तिमृगस्येति ।