श्रेष्ठो᳚ जा॒तस्य᳚ रुद्र श्रि॒यासि᳚ त॒वस्त᳚मस्त॒वसां᳚ वज्रबाहो ।
पर्षि᳚ णः पा॒रमंह᳚सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप᳚सो युयोधि ॥
पर्षि᳚ णः पा॒रमंह᳚सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप᳚सो युयोधि ॥
पदपाठः (Word-by-word)
श्रेष्ठः᳚ । जा॒तस्य᳚ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वः॑त᳚मः । त॒वसा᳚म् । व॒ज्र॒बा॒हो॒ इति᳚ वज्र॑बाहो ।
पर्षि᳚ । नः॒ । पा॒रम् । अंह᳚सः । स्व॒स्ति । विश्वाः᳚ । अ॒भि॑इ᳚तीः । रप᳚सः । यु॒यो॒धि॒ ॥
पर्षि᳚ । नः॒ । पा॒रम् । अंह᳚सः । स्व॒स्ति । विश्वाः᳚ । अ॒भि॑इ᳚तीः । रप᳚सः । यु॒यो॒धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेरुद्र जातस्योत्पन्नस्यसर्वस्यजगतोमध्ये श्रियाऎश्वर्येणश्रेष्ठः प्रशस्यतमोसि भवसि तथा हेवज्र- बाहो आयुधहस्तरुद्र तवसां प्रव्रुद्धानांमध्येतवस्तमः अतिशयेनप्रवृद्धोसि सत्वं नोस्मान् अंहसः पापस्य पारंतीरं स्वस्तिक्षेमेणपर्षिपारय तथा रपसः पापस्य विश्वाः सर्वाः अभीतीरभिगमनानि- युयोधिपृथक्कुरु यौतेश्छान्दसःशपःश्लुः वाछन्दसीत्यपित्त्वस्यविकल्पनात् ङित्त्वाभावे अङितश्चे- तिहेर्धिः ॥ ३ ॥