श्रवणम्

4.14.1
प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒ अख्य᳚द्दे॒वो रोच᳚माना॒ महो᳚भिः ।
आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप᳚ नो यात॒मच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । अ॒ग्निः । उ॒षसः᳚ । जा॒त॑वे᳚दाः । अख्य᳚त् । दे॒वः । रोच᳚मानाः । महः᳚॑भिः ।
आ । ना॒स॒त्या॒ । उ॒रु॒॑गा॒या । रथे᳚न । इ॒मम् । य॒ज्ञम् । उप᳚ । नः॒ । या॒त॒म् । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्यग्निरुष इति पञ्चर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं मान्त्रवर्णिकदैवतं वा । तथा चानुक्रान्तम् । प्रत्यग्निरिति । लिङ्गोक्तदैवतं त्विति तुशब्दादस्यापि सूक्तस्य लिङ्गोक्तदैवतत्वं ॥ विनियोगो लैङ्गिकः ॥

देवो द्योतमानो जातवेदा जातधनोऽग्निर्महोभिस्तेजोभी रोचमाना दीप्यमाना उषसः प्रत्युषसो लक्षीकृत्याख्यत् । प्रवृद्धो भवति । उरुगाया प्रभूतगमनौ हे नासत्याश्विनौ रथेन नोऽस्मदीयमिमं यज्ञमच्छाभिमुखमुप यातम् । उपगच्छतं ॥ १ ॥