ऊ॒र्ध्वं के॒तुं स᳚वि॒ता दे॒वो अ᳚श्रे॒ज्ज्योति॒र्विश्व᳚स्मै॒ भुव᳚नाय कृ॒ण्वन् ।
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि᳚क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि᳚तानः ॥
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि᳚क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि᳚तानः ॥
पदपाठः (Word-by-word)
ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः᳚ । विश्व᳚स्मै । भुव᳚नाय । कृ॒ण्वन् ।
आ । अ॒प्राः॒ । द्यावा᳚पृथि॒वी इति᳚ । अ॒न्तरि᳚क्षम् । वि । सूर्यः᳚ । र॒श्मि॑भिः᳚ । चेकि᳚तानः ॥
आ । अ॒प्राः॒ । द्यावा᳚पृथि॒वी इति᳚ । अ॒न्तरि᳚क्षम् । वि । सूर्यः᳚ । र॒श्मि॑भिः᳚ । चेकि᳚तानः ॥
सायणभाष्यम् (Sayana Commentary)
विश्वस्मै सर्वस्मै भुवनाय लिकाय ज्योतिस्तेजः कृन्वन् कुवन् सविता प्रेरको देव ऊर्ध्वमुन्मुखं केतुं प्रकाशकं भानुमश्रेत् । आश्रयति । विचेकितानः सर्वं विशेशेण पश्यन् सूर्यो रश्मिभिः स्वकीयैः किरणैर्द्यावापृथिवी द्युलोकभूलोकौ चान्तरिक्षं चाप्राः । समन्तादपुरयत् ॥ २ ॥