यस्त्वाम᳚ग्न इ॒नध᳚ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं᳚ कृ॒णव॒त्सस्मि॒न्नह᳚न् ।
स सु द्यु॒म्नैर॒भ्य᳚स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ॥
स सु द्यु॒म्नैर॒भ्य᳚स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ॥
पदपाठः (Word-by-word)
यः । त्वाम् । अ॒ग्ने॒ । इ॒नध᳚ते । य॒त॑स्रु᳚क् । त्रिः । ते॒ । अन्न᳚म् । कृ॒णव᳚त् । सस्मि᳚न् । अह᳚न् ।
सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒॑सक्ष᳚त् । तव᳚ । क्रत्वा᳚ । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ॥
सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒॑सक्ष᳚त् । तव᳚ । क्रत्वा᳚ । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ॥
सायणभाष्यम् (Sayana Commentary)
यस्त्वामग्न इति षडृचं द्वितीयं सूक्तम् । वामदेव ऋषिः । त्रैष्टुभं छन्दः । अग्निर्देवता । यस्त्वामित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥
हे अग्ने यतस्रुक् स्रुचा सम्बद्धो यो यजमानस्त्वामिनधते । दीप्तियुक्तं कुर्यात् । यः सस्मिन्नहन् सर्वस्मिन्नहनि ते तुभ्यम् त्रिस्त्रिवारं सवनत्रयेऽन्नं हविर्लक्षणमन्नं कृणवत् । कुर्यात् । हे जातवेदो जातानां वेदितरग्ने तव तोषकेण क्रत्वेन्धनादिहेतुना कर्मना प्रसक्षत् प्रसहमानं त्वदीयं तेजश्चिकित्वान् जानन् स यजमानो द्युम्नैर्धनैर्यशोभिर्वा सु अत्यन्तमभ्यस्तु । शत्रुनभिभवतु ॥ १ ॥