श्रवणम्

4.12.5
म॒हश्चि᳚दग्न॒ एन᳚सो अ॒भीक᳚ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् ।
मा ते॒ सखा᳚य॒ः सद॒मिद्रि᳚षाम॒ यच्छा᳚ तो॒काय॒ तन᳚याय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
म॒हः । चि॒त् । अ॒ग्ने॒ । एन᳚सः । अ॒भीके᳚ । ऊ॒र्वात् । दे॒वाना᳚म् । उ॒त । मर्त्या᳚नाम् ।
मा । ते॒ । सखा᳚यः । सद᳚म् । इत् । रि॒षा॒म॒ । यच्छ᳚ । तो॒काय᳚ । तन᳚याय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवानामिन्द्रादीनामुत अपि च मर्त्यानां मनुष्याणामभिकेऽन्तिके । अभीक इत्त्यन्तिकनामैतत् । अस्माभिर्यत्पापं क्रुतं महश्चिन्महतोऽप्यूर्वाद्विस्तृतादस्मादेनसः पापात्ते त्वदीयाः सखायो मित्रभूताः स्तोतारो वयं सदमित्सर्वदैव मा रिषाम । मा हिंसिता भूम । हे अग्ने त्वं तोकाय पुत्राय तनयाय पौत्राय शं पापरूपोपद्रवाणां शान्तिं योः सुकृतोत्पादितं सुखं च यच्छ । देहि ॥ ५ ॥