श्रवणम्

4.12.3 समानपद
अ॒ग्निरी᳚शे बृह॒तः क्ष॒त्रिय᳚स्या॒ग्निर्वाज᳚स्य पर॒मस्य᳚ रा॒यः ।
दधा᳚ति॒ रत्नं᳚ विध॒ते यवि᳚ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय᳚स्य । अ॒ग्निः । वाज᳚स्य । प॒र॒मस्य᳚ । रा॒यः ।
दधा᳚ति । रत्न᳚म् । वि॒ध॒ते । यवि᳚ष्ठः । वि । आ॒नु॒षक् । मर्त्या᳚य । स्व॒धा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उखासम्भरणियेष्टावग्नेः क्षत्रभृतोऽनुवाक्या । तथा च सूत्रितम् । अग्निरीशे बृहतः क्षत्रियस्यर्चामि ते सुमतिं घोष्यर्वाक् । आ. ४-१ ॥ इति ॥

अग्निर्बृहतो महतः क्षत्रियस्य बलस्येशे । ईश्वरो भवति । वर्तमानार्थे लिट् । किञ्च अग्निः परमस्योत्कृष्टस्य वाजस्यान्नस्य रायः पश्वादेर्धनस्य चेशे । यविष्थो युवतमः स्वधावानन्नवान् तेजस्वी वाग्निर्विधते । परिचरते । विधतिः परिचरनकर्मेति यास्कः । मर्त्याय मनुष्याय यजमानाय रत्नं रमणीयं धनमानुषक् अनुषक्तं वि दधाति । करोति ॥ ३ ॥