यथा᳚ ह॒ त्यद्व᳚सवो गौ॒र्यं᳚ चित्प॒दि षि॒ताममु᳚ञ्चता यजत्राः ।
ए॒वो ष्व१॒᳚स्मन्मु᳚ञ्चता॒ व्यंह॒ः प्र ता᳚र्यग्ने प्रत॒रं न॒ आयु᳚ः ॥
ए॒वो ष्व१॒᳚स्मन्मु᳚ञ्चता॒ व्यंह॒ः प्र ता᳚र्यग्ने प्रत॒रं न॒ आयु᳚ः ॥
पदपाठः (Word-by-word)
यथा᳚ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य᳚म् । चि॒त् । प॒दि । सि॒ताम् । अमु᳚ञ्चत । य॒ज॒त्राः॒ ।
ए॒वो इति᳚ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः᳚ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒॑त॒रम् । नः॒ । आयुः᳚ ॥
ए॒वो इति᳚ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः᳚ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒॑त॒रम् । नः॒ । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यजत्रा यजनीयाः पूजार्हा हे वसवो निवासयितारोऽग्नयो यूयं यथा ह यथैव त्यत्त्यां तां पदिपादे सितां बद्धां गौर्यं चित् गौरीं गामप्यमुञ्चत । त्यक्तवन्तो भूयास्त । एवो एवमेवास्मदस्मत्तोऽहः पापं सु अत्यन्तं वि मुञ्चत । विमुक्तं कुरुत । बहुवचनं पूजार्थम् । हे अग्ने त्वया प्रतरं प्रवृद्धं नोऽस्मदीयमायुः प्रतारि । प्रवृद्धं क्रियतां ॥ ६ ॥