श्रवणम्

2.41.1
वायो॒ ये ते᳚ सह॒स्रिणो॒ रथा᳚स॒स्तेभि॒रा ग᳚हि ।
नि॒युत्वा॒न्त्सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । ये । ते॒ । स॒ह॒स्रिणः᳚ । रथा᳚सः । तेभिः᳚ । आ । ग॒हि॒ ।
नि॒युत्वा᳚न् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो तेत्वदीयायेसहस्रिणः सहस्रसंख्याकारथासः रथाः तेभिस्तैर्नियुत्वान् नियुद्भिर्युक्त स्त्वं सोमपीतये सोमपानार्थमागह्यागच्छ नानारूपत्वात् वायोः सर्वाभिर्विभूतिभिः सहा- गमनं प्रार्थ्यतइतिभावः ॥ १ ॥