श्रवणम्

2.41.12
इन्द्र॒ आशा᳚भ्य॒स्परि॒ सर्वा᳚भ्यो॒ अभ᳚यं करत् ।
जेता॒ शत्रू॒न्विच᳚र्षणिः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । आशा᳚भ्यः । परि᳚ । सर्वा᳚भ्यः । अभ᳚यम् । क॒र॒त् ।
जेता᳚ । शत्रू᳚न् । वि॑च᳚र्षणिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विचर्षणिः विविधंद्रष्टा जेता शत्रून् असुरान् जेता तृन्नन्तत्वात् षष्ठ्यभावः इन्द्रः षरमैश्वर्य वान् सर्वाभ्यआशाभ्योदिग्भ्योस्माकंअभयंकरत् करोतु परीतिपञ्चमीद्योतकः ॥ १२ ॥