श्रवणम्

2.41.18
इ॒मा ब्रह्म᳚ सरस्वति जु॒षस्व᳚ वाजिनीवति ।
या ते॒ मन्म᳚ गृत्सम॒दा ऋ᳚तावरि प्रि॒या दे॒वेषु॒ जुह्व᳚ति ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्म᳚ । स॒र॒स्व॒ति॒ । जु॒षस्व᳚ । वा॒जि॒नी॒॑व॒ति॒ ।
या । ते॒ । मन्म᳚ । गृ॒त्स॒॑म॒दाः । ऋ॒त॒॑व॒रि॒ । प्रि॒या । दे॒वेषु᳚ । जुह्व᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनीवति अन्नवति ऋतावरि उदकवति हेसरस्वति इमाइमानिब्रह्मब्रह्मणि हवींषि जुषस्व स्वीकुरु या यानि मन्म मननीयानि देवेषुप्रिया देवानांमध्येतुभ्यंप्रियाणि देवेषुप्रियाणि वा तेत्वदर्थंगृत्समदाजुह्वति ॥ १८ ॥