श्रवणम्

2.41.7
गोम᳚दू॒ षु ना᳚स॒त्याश्वा᳚वद्यातमश्विना ।
व॒र्ती रु᳚द्रा नृ॒पाय्य᳚म् ॥
▶ पदपाठः (Word-by-word)
गो॑म᳚त् । ऊं॒ इति᳚ । सु । ना॒स॒त्या॒ । अश्व᳚॑वत् । या॒त॒म् । अ॒श्वि॒ना॒ ।
व॒र्तिः । रु॒द्रा॒ । नृ॒॑पाय्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विनाहेअश्विनौ हेनासत्या अनृतभाषाणरहितौ हेरुद्रा रोरूयमाणौ द्रवन्तौयुवांवर्तिर्मार्गः तेनमार्गेणरथेनवा न्रुपाय्यंनृभिःनेतृभिर्देवैः पातव्यं सोमंगोमत् गोमद्यथाभवति तथा अश्ववत् अश्ववच्चयथाभवति तथा यातंगच्छतं ऊष्वितिपूरणौ ॥ ७ ॥