श्रवणम्

2.41.3
शु॒क्रस्या॒द्य गवा᳚शिर॒ इन्द्र᳚वायू नि॒युत्व᳚तः ।
आ या᳚तं॒ पिब᳚तं नरा ॥
▶ पदपाठः (Word-by-word)
शु॒क्रस्य᳚ । अ॒द्य । गो॑आ᳚शिरः । इन्द्र᳚वायू॒ इति᳚ । नि॒युत्व᳚तः ।
आ । या॒त॒म् । पिब᳚तम् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरानेतारौ हेइन्द्रवायू अद्यास्मिन्नहनिनियुत्वतः विभक्तिव्यत्ययः नियुत्वन्तौ युवां गवा शिरः गव्यंपयः आशीराश्रयणसाधनंयस्य तस्यशुक्रस्यदीप्तस्य सोमस्य पानार्थं आयातं आगच्छ तं आगत्यसोमंपिबतम् ॥ ३ ॥