प्रेतां᳚ य॒ज्ञस्य᳚ श॒म्भुवा᳚ यु॒वामिदा वृ᳚णीमहे ।
अ॒ग्निं च᳚ हव्य॒वाह᳚नम् ॥
अ॒ग्निं च᳚ हव्य॒वाह᳚नम् ॥
पदपाठः (Word-by-word)
प्र । इ॒ता॒म् । य॒ज्ञस्य᳚ । श॒म्॑भुवा᳚ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ ।
अ॒ग्निम् । च॒ । ह॒व्य॒॑वाह᳚नम् ॥
अ॒ग्निम् । च॒ । ह॒व्य॒॑वाह᳚नम् ॥
सायणभाष्यम् (Sayana Commentary)
यज्ञस्ययागस्यशंभुवासुखसंपादकेहविर्धानेअनसी तद्रूपेद्यावापृथिव्यौवा प्रेतांउत्तरवेदेः पश्चि मभागंप्रतिगच्छतां अथप्रत्यक्षकृतः युवामित् युवामेवआवृणीमहे प्रार्थयामहे हव्यवाहनमग्निंच आवृणीमहे अग्निरत्रनिपातभागिति ॥ १९ ॥