विश्वे᳚ देवास॒ आ ग᳚त शृणु॒ता म᳚ इ॒मं हव᳚म् ।
एदं ब॒र्हिर्नि षी᳚दत ॥
एदं ब॒र्हिर्नि षी᳚दत ॥
पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव᳚म् ।
आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥
आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वेदेवासः हेविश्वेदेवाः आगत इहागच्छतमे मदीयंइमंहवमाह्वानंशृणुत इदंबर्हिरस्मिन् बर्हिषिआनिषीदत उपविशत ॥ १३ ॥