इन्द्र᳚ज्येष्ठा॒ मरु᳚द्गणा॒ देवा᳚स॒ः पूष᳚रातयः ।
विश्वे॒ मम᳚ श्रुता॒ हव᳚म् ॥
विश्वे॒ मम᳚ श्रुता॒ हव᳚म् ॥
पदपाठः (Word-by-word)
इन्द्र᳚॑ज्येष्ठाः । मरु᳚त्॑गणाः । देवा᳚सः । पूष᳚॑रातयः ।
विश्वे᳚ । मम᳚ । श्रु॒त॒ । हव᳚म् ॥
विश्वे᳚ । मम᳚ । श्रु॒त॒ । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्रज्येष्ठाः इंद्रपुरोगमामरुद्गणाः मरुत्समूहरूपाः पूषरातयः पूषाख्योदेवोरातिर्दाता येषां तेपूषरातयः देवासः हेद्यातेमानादेवाः विश्वेसर्वेयूयं मममदीयंहवमाह्वानंश्रुतश्रृणुत इन्द्रज्येष्ठा दयः संबोधनान्ताः ॥ १५ ॥