अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम᳚ ऋतावृधा ।
ममेदि॒ह श्रु᳚तं॒ हव᳚म् ॥
ममेदि॒ह श्रु᳚तं॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः᳚ । ऋ॒त॒॑वृ॒धा॒ ।
मम᳚ । इत् । इ॒ह । श्रु॒त॒म् । हव᳚म् ॥
मम᳚ । इत् । इ॒ह । श्रु॒त॒म् । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
मित्रावरुणा हेमित्रावरुणौ वांयुवाभ्यां अयंसोमः सुतः अभिषुतः ऋतावृधा हेसत्यस्य यज्ञस्यवावर्धकौ ममेत् ममैवइहास्मिन्यज्ञे हवमाह्वानं श्रुतं श्रृणुतम् ॥ ४ ॥