इन्द्रो᳚ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप᳚ चुच्यवत् ।
स हि स्थि॒रो विच᳚र्षणिः ॥
स हि स्थि॒रो विच᳚र्षणिः ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप᳚ । चु॒च्य॒व॒त् ।
सः । हि । स्थि॒रः । वि॑च᳚र्षणिः ॥
सः । हि । स्थि॒रः । वि॑च᳚र्षणिः ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः महत् अधिकं अभीषत् अभिभवत् भयंभयकारणं अपचुच्यवत् अपच्यावयेत् हिय स्मात्कारणात् सस्थिरः केनापिचालयितुमशक्यः विचर्षणिर्विश्वस्यद्रष्टा अङ्गेति पूरणम् ॥ १० ॥