श्रवणम्

2.41.17 समानपद
त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् ।
शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । विश्वा᳚ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं᳚षि । दे॒व्याम् ।
शु॒न॑हो᳚त्रेषु । म॒त्स्व॒ । प्र॒॑जाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसरस्वति देव्यांद्योतमानायांत्वेत्वयि विश्वाविश्वानि सर्वाण्यायूंषिअन्नानिआयुः सूमृतेत्यन्न नाससुपाठात् श्रिताआश्रितानि सात्वं शुन होत्रेषु गृत्समदेष्वस्मासुविषयेषुमत्स्वसोमपानेनतृप्य किंच हेदेविसरस्वति नः अस्मभ्यंप्रजां दिदिड्गिपुत्रान् देहि ॥ १७ ॥