श्रवणम्

2.41.16
अम्बि᳚तमे॒ नदी᳚तमे॒ देवि᳚तमे॒ सर᳚स्वति ।
अ॒प्र॒श॒स्ता इ᳚व स्मसि॒ प्रश᳚स्तिमम्ब नस्कृधि ॥
▶ पदपाठः (Word-by-word)
अम्बि᳚॑तमे । नदी᳚॑तमे । देवि᳚॑तमे । सर᳚स्वति ।
अ॒प्र॒श॒स्ताः॑इ᳚व । स्म॒सि॒ । प्र॑श᳚स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंबितमेमातॄणांश्रेष्ठे नदीतमेनदीनांश्रेष्ठे देवितमेदेवीनांश्रेष्ठे हेसरस्वति अप्रशस्ताइव धनाभा वादसमृद्धाइव वयंस्मसिभवामः अंब हेमातः सरस्वति नोस्मभ्यंप्रशस्तिंधनसमृद्धिंकृधि कुरुप्रय च्छेत्यर्थः ॥ १६ ॥