आ वा᳚मु॒पस्थ᳚मद्रुहा दे॒वाः सी᳚दन्तु य॒ज्ञिया᳚ः ।
इ॒हाद्य सोम᳚पीतये ॥
इ॒हाद्य सोम᳚पीतये ॥
पदपाठः (Word-by-word)
आ । वा॒म् । उ॒प॑स्थ᳚म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः᳚ ।
इ॒ह । अ॒द्य । सोम᳚॑पीतये ॥
इ॒ह । अ॒द्य । सोम᳚॑पीतये ॥
सायणभाष्यम् (Sayana Commentary)
अद्रुहाद्रोहवर्जितेहेहविर्धाने तद्रूपेद्यावापृथिव्यौवांयुवयोरुपस्थंसमीपं यज्ञियायज्ञार्हा देवाः इहयज्ञे अद्यास्मिन्नहनिसोमपीतये सोमपानायआसीदन्तु ॥ २१ ॥
कनिक्रददितितृचंदशमंसूक्तं अत्रिवमनुक्रमणिका—कनिक्रदत्तृचमिति मण्डलद्रष्टागृत्समदोस्य ऋषिः त्रिष्टुछन्दः कपिञ्चलरूपीन्द्रोदेवता वयसाममनोज्ञांवाचंश्रुत्वैतत्सूक्तंजपेत् सूत्रितंच—वय साममनोज्ञावाचः श्रुत्वाकनिक्रदज्जनुषंप्रब्रुवाणइतिसूक्तेजपेदिति ।