श्रवणम्

2.41.8
न यत्परो॒ नान्त᳚र आद॒धर्ष᳚द्वृषण्वसू ।
दु॒ःशंसो॒ मर्त्यो᳚ रि॒पुः ॥
▶ पदपाठः (Word-by-word)
न । यत् । परः᳚ । न । अन्त᳚रः । आ॒॑द॒धर्ष᳚त् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ।
दुः॒॑शंसः᳚ । मर्त्यः᳚ । रि॒पुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषण्वसू हेधनस्यवर्षितारौ यद्धनंपरोदूरस्थोदुःशंसः शंसनायोग्योर्त्योरिपुः यन्नादधर्षत् नापहरेत् तथोक्तलक्षणेतरः अन्तरः समीपवर्ती मर्त्योरिपुरपियन्नादधर्षत् तद्धनमावोह्ळमिति शेषः ॥ ८ ॥