श्रवणम्

2.41.11
इन्द्र᳚श्च मृ॒ळया᳚ति नो॒ न नः᳚ प॒श्चाद॒घं न᳚शत् ।
भ॒द्रं भ᳚वाति नः पु॒रः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । च॒ । मृ॒ळया᳚ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।
भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रश्च परमैश्वर्यवनिन्द्रश्चेत् नोस्मान् मृळयातिसुखयेत् पश्चात्पृष्ठतः नोस्मान् अघंदुरितं ननशत् नप्राप्नोतिनोस्माकंपुरः पुरस्तात् भद्रंकल्याणंचभवाति भवति ॥ ११ ॥