श्रवणम्

2.41.20
द्यावा᳚ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि᳚वि॒स्पृश᳚म् ।
य॒ज्ञं दे॒वेषु᳚ यच्छताम् ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚ । नः॒ । पृ॒थि॒वी इति᳚ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒॑स्पृश᳚म् ।
य॒ज्ञम् । दे॒वेषु᳚ । य॒च्छ॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावाद्यौश्चपृथिवीचउभे सिध्रंस्वर्गादेःसाधकं दिविस्पृशं देवान् गच्छन्तं अद्यास्मिन्नहनि अस्माकं इमंयज्ञंदेवेषुयच्छतांनियच्छताम् ॥ २० ॥