श्रवणम्

2.41.6
ता स॒म्राजा᳚ घृ॒तासु᳚ती आदि॒त्या दानु᳚न॒स्पती᳚ ।
सचे᳚ते॒ अन᳚वह्वरम् ॥
▶ पदपाठः (Word-by-word)
ता । स॒म्॑राजा᳚ । घृ॒तासु᳚ती॒ इति᳚ घृ॒त॑आ᳚सुती । आ॒दि॒त्या । दानु᳚नः । पती॒ इति᳚ ।
सचे᳚ते॒ इति᳚ । अन᳚व॑ह्वरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सम्राजौ आज्ञयैवसर्वेषांशास्तारौघृतासुती घृतान्नौ तद्वांमहित्वंघृतान्नावस्त्वितिमन्त्रान्तरात् आदित्या अदितेःपुत्रौ दानुनस्पती दानुनोदानस्य देवस्यवाधनस्यपतीस्वामिनौ ता तौ मित्रावरु णौ अनह्वरमकुटिलं यजमानं सचेते सेवेते ॥ ६ ॥