श्रवणम्

2.41.14
ती॒व्रो वो॒ मधु᳚मा{4} अ॒यं शु॒नहो᳚त्रेषु मत्स॒रः ।
ए॒तं पि᳚बत॒ काम्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ती॒व्रः । वः॒ । मधु᳚॑मान् । अ॒यम् । शु॒न॑हो᳚त्रेषु । म॒त्स॒रः ।
ए॒तम् । पि॒ब॒त॒ । काम्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविश्वेदेवाः तीव्रः तीव्रमदः मधुमान् मधुररसवान् मत्सरोमदकरः सोमोयंवोयुष्मदर्थं शुनहोत्रेषुगृत्समदेष्वस्मासुस्थितः काम्यंकमनीयमेतंसोमंपिबत ॥ १४ ॥