ता न॒ आ वो᳚ळ्हमश्विना र॒यिं पि॒शङ्ग᳚संदृशम् ।
धिष्ण्या᳚ वरिवो॒विद᳚म् ॥
धिष्ण्या᳚ वरिवो॒विद᳚म् ॥
पदपाठः (Word-by-word)
ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग᳚॑सन्दृशम् ।
धिष्ण्या᳚ । व॒रि॒वः॒॑विद᳚म् ॥
धिष्ण्या᳚ । व॒रि॒वः॒॑विद᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेधिष्णया धिषणार्हौ अश्विना हेअश्विनौ ता तौ युवांपिशंगसदृशं नानारूपं वरिवोविदं धनस्यलंभकंरयिंपशुंनोस्मभ्यं आवोह्ळमावहतम् ॥ ९ ॥