अ॒ग्निर्दे॒वेभि॒र्मनु᳚षश्च ज॒न्तुभि᳚स्तन्वा॒नो य॒ज्ञं पु᳚रु॒पेश᳚सं धि॒या ।
र॒थीर॒न्तरी᳚यते॒ साध᳚दिष्टिभिर्जी॒रो दमू᳚ना अभिशस्ति॒चात᳚नः ॥
र॒थीर॒न्तरी᳚यते॒ साध᳚दिष्टिभिर्जी॒रो दमू᳚ना अभिशस्ति॒चात᳚नः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वेभिः᳚ । मनु᳚षः । च॒ । ज॒न्तु॑भिः᳚ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒॑पेश᳚सम् । धि॒या ।
र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध᳚दिष्टि॑भिः । जी॒रः । दमू᳚नाः । अ॒भि॒श॒स्ति॒॑चात᳚नः ॥
र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध᳚दिष्टि॑भिः । जी॒रः । दमू᳚नाः । अ॒भि॒श॒स्ति॒॑चात᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
देवेभिः देवैः साधदिष्टिभिः साधितयज्ञैर्जन्तुभिः ऋत्विग्भिश्च धियाकर्मणा मनुषोयजमान स्य पुरुपेशसं बहुरूपं पेशइतिरूपनाम पुरोडासापशुसोमहविर्भेदैः एकाहाहीनसत्रात्मकभेदैश्च नानाविधरूपं यज्ञं तन्वानः कुर्वन् रथीः सर्वस्यलोकस्यनेता जीरः क्षिप्रकारी दमूनाः दान्त- मनाः दानमनावा अभिशस्तिचातनः अभिशस्तीनामरातीनां यज्ञविघ्नकारिणां रक्षसां चात- यितानाशयिताग्निः अन्तः द्यावापृथिव्योर्मध्ये ईयतेगच्छति ॥ ६ ॥