उ॒त मा॒ता म᳚हि॒षमन्व᳚वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः ।
अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन्त्सखे᳚ विष्णो वित॒रं वि क्र᳚मस्व ॥
अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन्त्सखे᳚ विष्णो वित॒रं वि क्र᳚मस्व ॥
पदपाठः (Word-by-word)
उ॒त । मा॒ता । म॒हि॒षम् । अनु᳚ । अ॒वे॒न॒त् । अ॒मी इति᳚ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः ।
अथ᳚ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः᳚ । ह॒नि॒ष्यन् । सखे᳚ । वि॒ष्णो॒ इति᳚ । वि॒॑त॒रम् । वि । क्र॒म॒स्व॒ ॥
अथ᳚ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः᳚ । ह॒नि॒ष्यन् । सखे᳚ । वि॒ष्णो॒ इति᳚ । वि॒॑त॒रम् । वि । क्र॒म॒स्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे मदीय पुत्रेन्द्र अमी वह्न्यादयो देवास्त्वा त्वां जहति । त्यजन्ति । इत्युक्तवतीन्द्रस्य मातादितिरिन्द्रं महिषं महान्तम् । महिष इति महन्नामैतत् । अन्ववेनत् । अयाचत । अथानन्तरं हे विष्णो व्यापनशील हे सखे मित्रभूत हरे त्वं वृत्रं हनिष्यन् हन्तुमिच्छन् वितरं वि क्रमस्व । अतिपराक्रमीभवेतीन्द्रो विष्णुमब्रवीत् । उवाच ॥ ११ ॥