श्रवणम्

4.18.5
अ॒व॒द्यमि᳚व॒ मन्य᳚माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ᳚ष्टम् ।
अथोद᳚स्थात्स्व॒यमत्कं॒ वसा᳚न॒ आ रोद᳚सी अपृणा॒ज्जाय᳚मानः ॥
▶ पदपाठः (Word-by-word)
अ॒व॒द्यम्॑इ᳚व । मन्य᳚माना । गुहा᳚ । अ॒कः॒ । इन्द्र᳚म् । मा॒ता । वी॒र्ये᳚ण । नि॑ऋ᳚ष्टम् ।
अथ᳚ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क᳚म् । वसा᳚नः । आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒णा॒त् । जाय᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गुहा गुहायां गह्वररूपे सूतिकागृहे जातमिन्द्रमवद्यमिव गर्हमिव मन्यमाना जानती मातेन्द्रजनन्यदितिर्वीर्येण सामर्थ्येन न्यृष्टं नितरां प्राप्तमकः । अकरोत् । अथानन्तरं जायमान उत्पद्यमान इन्द्रः स्वयमेवात्कं तेजो वसान आच्छादकः सन् । दधान इत्यर्थः । उदस्थात् । उत्कर्षेणातिष्ठत् । किञ्च रोदसी द्यावापृथिव्यापापृनात् । समन्तात्पूरयामास ॥ ५ ॥