नाहमतो॒ निर᳚या दु॒र्गहै॒तत्ति᳚र॒श्चता᳚ पा॒र्श्वान्निर्ग᳚माणि ।
ब॒हूनि᳚ मे॒ अकृ᳚ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ॥
ब॒हूनि᳚ मे॒ अकृ᳚ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ॥
पदपाठः (Word-by-word)
न । अ॒हम् । अतः᳚ । निः । अ॒य॒ । दुः॒॑गहा᳚ । ए॒तत् । ति॒र॒श्चता᳚ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।
ब॒हूनि᳚ । मे॒ । अकृ᳚ता । कर्त्वा᳚नि । युध्यै᳚ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥
ब॒हूनि᳚ । मे॒ । अकृ᳚ता । कर्त्वा᳚नि । युध्यै᳚ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥
सायणभाष्यम् (Sayana Commentary)
वामदेव एवमुक्तवन्तमिन्द्रं प्रत्याह । अहमतो योनिमार्गान्न निरया । न निरयाणि । न निर्गच्छानि । एतद्योनिनिर्गमरूपं वर्त्म दुर्गहा । दुर्ग्रहम् । दुःख्ःएन ग्रह्यम् । न प्राप्यं भवतीत्यर्थः । किन्तु तिरश्चता तिरश्चीनात्पार्श्वान्निर्गमानि । निर्गच्छानि । योनिदेशादनिर्गतोऽहं पार्श्वं भित्त्वानिर्गच्छानीत्यर्थः । अन्यैरकृतमिदमेव न केवलं मया क्रियते किन्त्वन्यैरकृतानि बहूनि कर्माणि मे कर्त्वानि कर्तव्यानि सन्ति । त्वेनैकेन सपत्नेन विवदमानेन सह युध्यै । युद्धं करवाणी । त्वेनैकेन बुभुत्सुना सं पृच्छै । सम्यक् पृच्छानि ॥ २ ॥