श्रवणम्

4.18.13
अव᳚र्त्या॒ शुन᳚ आ॒न्त्राणि᳚ पेचे॒ न दे॒वेषु᳚ विविदे मर्डि॒तार᳚म् ।
अप᳚श्यं जा॒यामम᳚हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज᳚भार ॥
▶ पदपाठः (Word-by-word)
अव᳚र्त्या । शुनः᳚ । आ॒न्त्राणि᳚ । पे॒चे॒ । न । दे॒वेषु᳚ । वि॒वि॒दे॒ । म॒र्डि॒तार᳚म् ।
अप᳚श्यम् । जा॒याम् । अम᳚हीयमानाम् । अध᳚ । मे॒ । श्ये॒नः । मधु᳚ । आ । ज॒भा॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया वामदेवः स्वकीयं दारिद्र्यं सूचयन्निन्द्रस्योत्कर्षमह । वामदेवोऽहमवर्त्या जीवनोपायराहित्येन शुनः शुनकसम्बन्धीन्यान्त्राणि पुरीतन्ति पेचे । अपचम् । देवेशु द्योतमानेशु वह्न्यादिष्य् मध्य इन्द्रादन्यं मर्डितारं सुखयितारं न विविदे । न लेभे । किञ्च जायां स्वकीयां भार्याममहीयमानामश्लाघनीयामपश्यम् । अद्राक्षम् । अध अथानन्तरं श्येनः श्येनवच्छीघ्रगामीन्द्रो मे मह्यं मधु मधुरोपेतमुदकमा जभार । आजहार ॥ १३ ॥