ए॒ता अ᳚र्षन्त्यलला॒भव᳚न्तीरृ॒ताव᳚रीरिव सं॒क्रोश᳚मानाः ।
ए॒ता वि पृ᳚च्छ॒ किमि॒दं भ᳚नन्ति॒ कमापो॒ अद्रिं᳚ परि॒धिं रु᳚जन्ति ॥
ए॒ता वि पृ᳚च्छ॒ किमि॒दं भ᳚नन्ति॒ कमापो॒ अद्रिं᳚ परि॒धिं रु᳚जन्ति ॥
पदपाठः (Word-by-word)
ए॒ताः । अ॒र्ष॒न्ति॒ । अ॒ल॒ला॒॑भव᳚न्तीः । ऋ॒तव᳚रीः॑इव । स॒म्॑क्रोश᳚मानाः ।
ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः᳚ । अद्रि᳚म् । प॒रि॒॑धिम् । रु॒ज॒न्ति॒ ॥
ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः᳚ । अद्रि᳚म् । प॒रि॒॑धिम् । रु॒ज॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अललाभवन्तीरललेत्येवंरूपं शब्दं कुर्वत्य ऋतावरीरिवोदकवत्य एवैता नद्यः सङ्क्रोशमाना इन्द्रमहत्त्वप्रतिपादकोद्भुतेन हर्षेण बहुविधं शब्दायमानाः सत्योऽर्षन्ति । गच्छन्ति । एवं भूता नद्य इदं किं भवन्ति श्रोत्रग्राह्यं शब्दायमानं किं वदन्तीममर्थं हे ऋषे त्वमेता नदीर्वि पृच्छ । विशेषेण पृष्टवान् भव । एवं संपृच्छ । विचारिते सत्येतच्छब्दायमानमिन्द्रमाहात्म्यस्यैव वचनं भवतीत्यर्थः । कि~च आप उदकानि परिधिमावरकं कमद्रिं कं मेघं रुजन्ति । भजन्ति । आपः कमपि मेघं न भजन्ति किन्तु इन्द्रो मम पुत्र एवोदकावरकं मेघं भक्त्वापः प्रवर्तयतीत्यर्थः ॥ ६ ॥