श्रवणम्

4.18.3
प॒रा॒य॒तीं मा॒तर॒मन्व᳚चष्ट॒ न नानु᳚ गा॒न्यनु॒ नू ग᳚मानि ।
त्वष्टु᳚र्गृ॒हे अ᳚पिब॒त्सोम॒मिन्द्र᳚ः शतध॒न्यं᳚ च॒म्वो᳚ः सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
प॒रा॒॑य॒तीम् । मा॒तर᳚म् । अनु᳚ । अ॒च॒ष्ट॒ । न । न । अनु᳚ । गा॒नि॒ । अनु᳚ । नु । ग॒मा॒नि॒ ।
त्वष्टुः᳚ । गृ॒हे । अ॒पि॒ब॒त् । सोम᳚म् । इन्द्रः᳚ । श॒त॒॑ध॒न्य᳚म् । च॒म्वोः᳚ । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मयि गर्भस्थिते सतीन्द्रो मदीयां मातरं पारयतीं परेतां म्रियमाणामन्वचष्ट । अन्वब्रवीत् । एवमपीदानीं गर्भे स्थितोऽहं पुराणं पन्थानं न नानु गानि । नानुगच्छानीति न । किन्तु नु क्षिप्रमनु गमानि । अनुगच्छान्येव । वामदेवः स्वकीयमकृत्यकारित्वं परिहृत्येन्द्रस्याकृत्यकारित्वमुत्तरार्धर्चेन प्रतिपादयति । इन्द्रश्चम्वोः सोमाभिषवफलकयोः सुतस्य सोमं सुतवतोऽभिषुतवतस्त्वष्टुः सम्बन्धिनि गृहेऽनुपहुतः सन् शतधन्यं बहुधनेन क्रीतं सोममपिबत् । बलात्कारेण सोमस्य पानं कृतवान् । अयमर्थस्तैत्तिरीयैस्त्वष्टा हतपुत्रोवीन्द्रं सोममाहरदित्यनुवाके । तै. सं. २-४-१२ । महता प्रबन्धेन प्रपञ्चितः ॥ ३ ॥