मम᳚च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम᳚च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार᳚ ।
मम᳚च्चि॒दाप॒ः शिश᳚वे ममृड्यु॒र्मम᳚च्चि॒दिन्द्र॒ः सह॒सोद᳚तिष्ठत् ॥
मम᳚च्चि॒दाप॒ः शिश᳚वे ममृड्यु॒र्मम᳚च्चि॒दिन्द्र॒ः सह॒सोद᳚तिष्ठत् ॥
पदपाठः (Word-by-word)
मम᳚त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒॑आस᳚ । मम᳚त् । च॒न । त्वा॒ । कु॒षवा᳚ । ज॒गार᳚ ।
मम᳚त् । चि॒त् । आपः᳚ । शिश᳚वे । म॒मृ॒ड्युः॒ । मम᳚त् । चि॒त् । इन्द्रः᳚ । सह᳚सा । उत् । अ॒ति॒ष्ठ॒त् ॥
मम᳚त् । चि॒त् । आपः᳚ । शिश᳚वे । म॒मृ॒ड्युः॒ । मम᳚त् । चि॒त् । इन्द्रः᳚ । सह᳚सा । उत् । अ॒ति॒ष्ठ॒त् ॥
सायणभाष्यम् (Sayana Commentary)
सूक्तशेषेण ऋषिरिन्द्रं स्तौति । हे इन्द्र ममच्चन माद्यन्त्येव । प्रमत्तैवेत्यर्थः । युवतिस्त्व्दीया मातादितिस्त्वा त्वां परास । पराचिक्षेक । किञ्च कुषवानाम्नी काचिद्राक्षसी सा ममच्चन प्रमत्तैव त्वा त्वां जगार । गिरति स्म । हे इन्द्र ममच्चित्प्रमाद्यन्त्य एवापः शिशवे जाताय तुभ्यम् ममृढ्य्ः । सुखयाञ्चक्रुः । ममच्चित् माद्यन्नेवेन्द्रः सहसा स्वेन वीर्येणोदतिष्ठत् । सूतिकाग्रहाद्राक्षसीं बाधमानः सन् उत्कर्षेण तस्थौ ॥ ८ ॥