श्रवणम्

4.18.9 समानपद
मम᳚च्च॒न ते᳚ मघव॒न्व्यं᳚सो निविवि॒ध्वा{4} अप॒ हनू᳚ ज॒घान᳚ ।
अधा॒ निवि᳚द्ध॒ उत्त᳚रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि᳚णग्व॒धेन᳚ ॥
▶ पदपाठः (Word-by-word)
मम᳚त् । च॒न । ते॒ । म॒घ॒॑व॒न् । वि॑अं᳚सः । नि॒॑वि॒वि॒ध्वान् । अप᳚ । हनू॒ इति᳚ । ज॒घान᳚ ।
अध᳚ । नि॑वि᳚द्धः । उत्॑त᳚रः । ब॒भू॒वान् । शिरः᳚ । दा॒सस्य᳚ । सम् । पि॒ण॒क् । व॒धेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र ममच्चन प्रमाद्यन्नेव व्यम्सो नाम राक्षसो निविविध्वान् प्रविध्यन् ते हनू त्वदीये हनू मुखपार्श्वे अप जघान । अपहतवान् । अध अथानन्तरं हे इन्द्र निविद्धो राक्षसेन ताडितस्त्वमुत्तरो व्यंसादधिकबलो बभूवान् भुतः सन् दासस्य क्षीणस्य व्यंसस्य शिरो वधेन वज्रेण सं पिणक् । पिष्टवासि ॥ ९ ॥