श्रवणम्

4.20.1
आ न॒ इन्द्रो᳚ दू॒रादा न᳚ आ॒साद᳚भिष्टि॒कृदव᳚से यासदु॒ग्रः ।
ओजि᳚ष्ठेभिर्नृ॒पति॒र्वज्र᳚बाहुः सं॒गे स॒मत्सु᳚ तु॒र्वणि᳚ः पृत॒न्यून् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । इन्द्रः᳚ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒॑कृत् । अव᳚से । या॒स॒त् । उ॒ग्रः ।
ओजि᳚ष्ठेभिः । नृ॒॑पतिः᳚ । वज्र᳚॑बाहुः । स॒म्॑गे । स॒मत्॑सु᳚ । तु॒र्वणिः᳚ । पृ॒त॒न्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ न इन्द्र इत्येकादशर्चं दशमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । आ न इत्यनुक्रमणिका । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि निश्केवल्य एतन्निविद्धानीयम् । सूत्रितं च । आ न इन्द्र इति निष्केवल्यम् । आ. ७-५ । इति । महाव्रतेऽप्येतत्संपातसूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च । आ न इन्द्रो दूरादा न आसादिति सम्पातः ॥ ऐ. आ. ५-२-२- । इति ॥

अभिष्टिकृद्यजमानसंबन्धिनामभीष्टानाम् कर्तोग्रस्तेजस्वीन्द्रो नोऽस्माकमवसे रक्शणाय दूरादा यासत् । आयातु । आगच्छतु । अपि च आसादासन्नादन्तिकाच्चनोऽस्माकमवसे रक्शणाया यासत् । आयातु । कीदृशः । समत्सु सङ्ग्रामेशु सङ्गे शत्रुभिः संयोगे सति पृतन्यून् शत्रून् तुर्वणिर्हिंसन् वज्रबाहुर्वज्रहस्तो नृपतिर्वृष्तिद्वारा नृणां मनुष्याणां पालक ओजिश्थेभिरतिशयेन तेजस्विभिर्मरुद्भिर्युक्त इति शेशः ॥ १ ॥