गि॒रिर्न यः स्वत᳚वा{4} ऋ॒ष्व इन्द्र᳚ः स॒नादे॒व सह᳚से जा॒त उ॒ग्रः ।
आद᳚र्ता॒ वज्रं॒ स्थवि᳚रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु᳚ना॒ न्यृ᳚ष्टम् ॥
आद᳚र्ता॒ वज्रं॒ स्थवि᳚रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु᳚ना॒ न्यृ᳚ष्टम् ॥
पदपाठः (Word-by-word)
गि॒रिः । न । यः । स्व॑त᳚वान् । ऋ॒ष्वः । इन्द्रः᳚ । स॒नात् । ए॒व । सह᳚से । जा॒तः । उ॒ग्रः ।
आ॑द᳚र्ता । वज्र᳚म् । स्थवि᳚रम् । न । भी॒मः । उ॒द्ना॑इ᳚व । कोश᳚म् । वसु᳚ना । नि॑ऋ᳚ष्टम् ॥
आ॑द᳚र्ता । वज्र᳚म् । स्थवि᳚रम् । न । भी॒मः । उ॒द्ना॑इ᳚व । कोश᳚म् । वसु᳚ना । नि॑ऋ᳚ष्टम् ॥
सायणभाष्यम् (Sayana Commentary)
गिरिर्न पर्वत इव स्वतवान् स्वयं प्रवृद्ध ऋष्वो महान् । ऋष्व इति महन्नाम महत् ब्रध्न ऋष्व इति तन्नामसु पाठात् । उग्र ओजस्वी य इन्द्रः सहसे शत्रोरभिभवाय सनादेव चिरादेव जात उत्पन्नो भीमः शत्रूणां भयङ्करः स इन्द्र उद्नेव कोशमुदकेन जलपत्रमिव वसुना तेजसा न्यृष्टं निगतं स्थविरं बृहद्वज्रं न वज्रं च । नेति चार्थे । आदर्ता । आदृतवानासीत् ॥ ६ ॥