मा नो᳚ मर्धी॒रा भ᳚रा द॒द्धि तन्न॒ः प्र दा॒शुषे॒ दात᳚वे॒ भूरि॒ यत्ते᳚ ।
नव्ये᳚ दे॒ष्णे श॒स्ते अ॒स्मिन्त᳚ उ॒क्थे प्र ब्र᳚वाम व॒यमि᳚न्द्र स्तु॒वन्त᳚ः ॥
नव्ये᳚ दे॒ष्णे श॒स्ते अ॒स्मिन्त᳚ उ॒क्थे प्र ब्र᳚वाम व॒यमि᳚न्द्र स्तु॒वन्त᳚ः ॥
पदपाठः (Word-by-word)
मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे᳚ । दात᳚वे । भूरि᳚ । यत् । ते॒ ।
नव्ये᳚ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः᳚ ॥
नव्ये᳚ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं नोऽस्मान्मा मर्धीः । मा हिंसीः । किन्तु त्वमा भर । पोशको भव । हे इन्द्र ते त्वदीयं भूरि बह्वपि यद्धनं दाशुषे हविर्दत्तवते यजमानाय दातवे दातुम् । प्र भवतीति शेशः । नोऽस्मभ्यं तद्धनमाहृत्य दद्धि । देहि । हे इन्द्र त्वां स्तुवन्तो वयमस्मिन्नुक्थेऽस्मिन्निष्केवल्याख्यशस्त्रे ते त्वदर्थं नव्ये नूतने शस्ते प्रशस्ते देष्णे दातव्ये हविषि निमित्तभूते सति प्र ब्रवाम । प्रकर्षेण त्वां वदाम ॥ १० ॥