ईक्षे᳚ रा॒यः क्षय᳚स्य चर्षणी॒नामु॒त व्र॒जम᳚पव॒र्तासि॒ गोना᳚म् ।
शि॒क्षा॒न॒रः स᳚मि॒थेषु᳚ प्र॒हावा॒न्वस्वो᳚ रा॒शिम᳚भिने॒तासि॒ भूरि᳚म् ॥
शि॒क्षा॒न॒रः स᳚मि॒थेषु᳚ प्र॒हावा॒न्वस्वो᳚ रा॒शिम᳚भिने॒तासि॒ भूरि᳚म् ॥
पदपाठः (Word-by-word)
ईक्षे᳚ । रा॒यः । क्षय᳚स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒॑व॒र्ता । अ॒सि॒ । गोना᳚म् ।
शि॒क्षा॒॑न॒रः । स॒म्॑इ॒थेषु᳚ । प्र॒हा॑वा᳚न् । वस्वः᳚ । रा॒शिम् । अ॒भि॒॑ने॒ता । अ॒सि॒ । भूरि᳚म् ॥
शि॒क्षा॒॑न॒रः । स॒म्॑इ॒थेषु᳚ । प्र॒हा॑वा᳚न् । वस्वः᳚ । रा॒शिम् । अ॒भि॒॑ने॒ता । अ॒सि॒ । भूरि᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं चर्षणीनां प्रजानां रायो धनस्य क्षयस्य गृहस्य चेक्षे । ईक्षसे । उतापि च गोनां गवां व्रजं समूहमपवर्तापवारकोऽसि । निरोधकेभ्योऽसुरेभ्यो गवां मोचयिता भवसीत्यर्थः । किञ्च हे इन्द्र शिक्षानरः शिक्षया नेता प्रज्ञानां शासकः समिथेषु युद्धेषु प्रहावान् प्रहरनवांस्त्वं भुरिं प्रभूतं वस्वो धनस्य राशिं समूहमभिनेतासि । प्रापयिता च भवसि ॥ ८ ॥