श्रवणम्

4.20.2
आ न॒ इन्द्रो॒ हरि᳚भिर्या॒त्वच्छा᳚र्वाची॒नो॑व᳚से॒ राध᳚से च ।
तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु᳚ नो॒ वाज᳚सातौ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । इन्द्रः᳚ । हरि᳚॑भिः । या॒तु॒ । अच्छ᳚ । अ॒र्वा॒ची॒नः । अव᳚से । राध᳚से । च॒ ।
तिष्ठा᳚ति । व॒ज्री । म॒घ॑वा᳚ । वि॒॑र॒प्शी । इ॒मम् । य॒ज्ञम् । अनु᳚ । नः॒ । वाज᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्वाचीनोऽस्मदभिमुख इन्द्रोऽस्मदीयाय रक्शणाय राधसे च धनाय च नोऽच्छास्मानभि लक्षीकृत्य हरिभिरश्वैः सहा यातु । आगच्छतु । किञ्च वज्री वज्रवान्मघवा धनवान्विरप्शी महान् । विरप्शीति महन्नामसु पाठात् । अस्मदीयस्य कर्मणो द्वेष्टृभिरसुरादिभिः सह नोऽस्माकं वाजसातौ युद्धे प्राप्ते सतीममस्मदीयं यज्ञमनूद्दिश्य तिष्ठाति । तिष्ठतु ॥ २ ॥