श्रवणम्

4.20.7
न यस्य᳚ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध᳚स आमरी॒ता म॒घस्य᳚ ।
उ॒द्वा॒वृ॒षा॒णस्त᳚विषीव उग्रा॒स्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । व॒र्ता । ज॒नुषा᳚ । नु । अस्ति᳚ । न । राध᳚सः । आ॒॑म॒री॒ता । म॒घस्य᳚ ।
उ॒त्॑व॒वृ॒षा॒णः । त॒वि॒षी॒॑वः॒ । उ॒ग्र॒ । अ॒स्मभ्य᳚म् । द॒द्धि॒ । पु॒रु॒॑हू॒त॒ । रा॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यस्य तव कश्चिज्जनुषा जन्मना स्वत एव नु सत्यं वर्ता वारयिता नास्ति । राधसो यज्ञादिकर्माणां साधकस्य मघस्य त्वया दीयमानस्य धनस्यामरीत कश्चिदपि नाशयिता नास्ति हे तविषीवो बलवन्नुग्र तेजस्विन् हे पुरुहूत बहुभिराहूतेन्द्र उद्ववृषाणोऽभीष्धान् कामान्वर्षकस्त्वं रायः पश्वादिधनान्यस्मभ्यं स्तोतृभ्यो दद्धि । देहि ॥ ७ ॥