श्रवणम्

4.20.9
कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि᳚ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि᳚दृ॒ष्वः ।
पु॒रु दा॒शुषे॒ विच᳚यिष्ठो॒ अंहो॑था᳚ दधाति॒ द्रवि᳚णं जरि॒त्रे ॥
▶ पदपाठः (Word-by-word)
कया᳚ । तत् । शृ॒ण्वे॒ । शच्या᳚ । शचि᳚ष्ठः । यया᳚ । कृ॒णोति᳚ । मुहु᳚ । का । चि॒त् । ऋ॒ष्वः ।
पु॒रु । दा॒शुषे᳚ । वि॑च᳚यिष्ठः । अंहः᳚ । अथ᳚ । द॒धा॒ति॒ । द्रवि᳚णम् । ज॒रि॒त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

शचिष्ठोऽतिशयेन प्राज्ञः । तदिति लिङ्गव्यत्ययः । तत् स इन्द्रः कया शच्या कया प्रज्ञया । कचीति प्रज्ञानामैतत् । शृण्वे । श्रूयते । ऋष्टो महानिन्द्रो मुहु मुहुर्यया प्रज्ञया का चित् कानिचित्कर्माणि कृणोति । करोति । स इन्द्रो दाशुषे हविर्दत्तवते यजमानाय पुरु भूयिष्ठमंहः पापं विचयिष्ठोऽतिशयेन नाशको भवति । अथापि च जरित्रे स्तोत्रे द्रविणं पश्वादिधनं दधाति । ददाति ॥ ९ ॥