वि यो र᳚र॒प्श ऋषि᳚भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ ।
मर्यो॒ न योषा᳚म॒भि मन्य᳚मा॒नो॑च्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ॥
मर्यो॒ न योषा᳚म॒भि मन्य᳚मा॒नो॑च्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ॥
पदपाठः (Word-by-word)
वि । यः । र॒रप्शे । ऋषि᳚॑भिः । नवे᳚भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः᳚ । न । जेता᳚ ।
मर्यः᳚ । न । योषा᳚म् । अ॒भि । मन्य᳚मानः । अच्छ᳚ । वि॒व॒क्मि॒ । पु॒रु॒॑हू॒तम् । इन्द्र᳚म् ॥
मर्यः᳚ । न । योषा᳚म् । अ॒भि । मन्य᳚मानः । अच्छ᳚ । वि॒व॒क्मि॒ । पु॒रु॒॑हू॒तम् । इन्द्र᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
पक्वः पक्वफलो वृक्षो न वृक्ष इव । अत्र सृणिशब्दोऽङ्कुशवाची । तेनायुधमात्रं लक्ष्यते । सृण्य आयुधकुशलो जेता न शत्रुविजयी वीरपुरुष इव यो नवेघिर्नवैर्नूतनैरृषिभिर्वि ररफे । विविधं स्तूयते । स्तोताहं पुरुहुतं बहुभिराहुतं तमिन्द्रमच्छाभि लक्षीकृत्य विवक्मि । विशेषेण वच्मि । स्तौमि । तत्र दृष्टान्तः । अभि मन्यमानो मदीयेयं योषिदित्यभिजानन्मर्यो मर्त्यो योषां न स्त्रीमिव तद्वत् ॥ ५ ॥