श्रवणम्

4.50.2 समानपद
धु॒नेत᳚यः सुप्रके॒तं मद᳚न्तो॒ बृह᳚स्पते अ॒भि ये न᳚स्तत॒स्रे ।
पृष᳚न्तं सृ॒प्रमद᳚ब्धमू॒र्वं बृह᳚स्पते॒ रक्ष᳚तादस्य॒ योनि᳚म् ॥
▶ पदपाठः (Word-by-word)
धु॒न॑इ᳚तयः । सु॒॑प्र॒के॒तम् । मद᳚न्तः । बृह᳚स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।
पृष᳚न्तम् । सृ॒प्रम् । अद᳚ब्धम् । ऊ॒र्वम् । बृह᳚स्पते । रक्ष᳚तात् । अ॒स्य॒ । योनि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहस्पते धुनेतयः । धुना शत्रूणां कम्पयित्रीतिर्गतिर्येषाम् ते । तादृशाः सुप्रकेतं शोभनप्रज्ञं त्वां मन्दतो मादयन्तो नोऽस्मत्सम्बन्धिनो य ऋत्विजोऽभि ततस्रे आत्मनमुपक्षिपन्ति स्तुवन्ति वा अस्यैषां योनिं कारणं यज्ञं यजमानं वा मां रक्षकात् । रक्श । योनिर्विशेष्यते । पृषन्तिअं फलानि सिञ्चन्तं सृप्रं सर्पणस्वभावमदब्धमहिंसितमूर्वमुरुं ॥ २ ॥