श्रवणम्

4.50.4 समानपद
बृह॒स्पति᳚ः प्रथ॒मं जाय᳚मानो म॒हो ज्योति᳚षः पर॒मे व्यो᳚मन् ।
स॒प्तास्य᳚स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर᳚श्मिरधम॒त्तमां᳚सि ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । प्र॒थ॒मम् । जाय᳚मानः । म॒हः । ज्योति᳚षः । प॒र॒मे । वि॑ओ᳚मन् ।
स॒प्त॑आ᳚स्यः । तु॒वि॒॑जा॒तः । रवे᳚ण । वि । स॒प्त॑र᳚श्मिः । अ॒ध॒म॒त् । तमां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं बृहस्पतिर्मन्त्राभिमानी चेवो महो महतो ज्योतिषो दीप्तस्यादित्यस्य परमे निरतिशये व्योमन् व्योमनि प्रथमं जायमानः प्रादुर्भवन् सप्तास्यः सप्तच्छन्दोमयमखस्तुविजातो बहुप्रकारं सम्भूतो रवेण सह्ब्देन सप्तरश्मिः सर्पणस्वभावतेजोयुक्तस्तमांसि व्यधमत् । धमतिर्गतिकर्मेति निरुक्तम् । ६-२ । विविधं गच्छति । नाशयतीत्यर्थः ॥ ४ ॥