ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि᳚धेम॒ नम᳚सा ह॒विर्भि᳚ः ।
बृह᳚स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
बृह᳚स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
पदपाठः (Word-by-word)
ए॒व । पि॒त्रे । वि॒श्व॑दे᳚वाय । वृष्णे᳚ । य॒ज्ञैः । वि॒धे॒म॒ । नम᳚सा । ह॒विः॑भिः᳚ ।
बृह᳚स्पते । सु॒॑प्र॒जाः । वी॒र॑व᳚न्तः । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
बृह᳚स्पते । सु॒॑प्र॒जाः । वी॒र॑व᳚न्तः । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
सायणभाष्यम् (Sayana Commentary)
एवा पित्र इति बार्हस्पत्ये पशौ हविषो याज्या । एवा पित्रे विश्वदेवाय वृष्णे विश्वे अद्य मरुतो विश्व ऊती । आ. ३-७ । इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्र एषैव धाय्या । तथा च सुत्रम् । एवा पित्रे विश्वदेवाय वृष्न आ नो भद्राः क्रतवो यन्तु विश्वत । आ. ५-१८ । इति ॥
पित्रे पालकाय विश्वदेवाय सर्वदेवतारूपाय । देवानां मन्त्रप्रतिपाद्यत्वादस्य च मन्त्राभिमानित्वाद्वैश्वदेवत्वम् । यद्वा । अत्र देवशब्दः स्तुत्यर्थः । सर्वैः स्तुत्याय वृष्णे वर्षकाय बृहस्पतये देवायैवैवमम्य्क्तप्रकारेण यज्ञैस्तत्साधनैर्हविर्भिराज्यचर्वादिलक्षणैर्नमसा स्तुत्या च विधेम । परिचरेम । हे बृहस्पते सुप्रजाः शोभनपुत्रा वीरवन्तो वीर्योपेता वयं रयीणां धनानां पतयः स्याम ॥ ६ ॥