बृह᳚स्पते॒ या प᳚र॒मा प᳚रा॒वदत॒ आ त᳚ ऋत॒स्पृशो॒ नि षे᳚दुः ।
तुभ्यं᳚ खा॒ता अ᳚व॒ता अद्रि᳚दुग्धा॒ मध्व᳚ः श्चोतन्त्य॒भितो᳚ विर॒प्शम् ॥
तुभ्यं᳚ खा॒ता अ᳚व॒ता अद्रि᳚दुग्धा॒ मध्व᳚ः श्चोतन्त्य॒भितो᳚ विर॒प्शम् ॥
पदपाठः (Word-by-word)
बृह᳚स्पते । या । प॒र॒मा । प॒रा॒॑वत् । अतः᳚ । आ । ते॒ । ऋ॒त॒॑स्पृशः᳚ । नि । से॒दुः॒ ।
तुभ्य᳚म् । खा॒ताः । अ॒व॒ताः । अद्रि᳚॑दुग्धाः । मध्वः᳚ । श्चो॒त॒न्ति॒ । अ॒भितः᳚ । वि॒॑र॒प्शम् ॥
तुभ्य᳚म् । खा॒ताः । अ॒व॒ताः । अद्रि᳚॑दुग्धाः । मध्वः᳚ । श्चो॒त॒न्ति॒ । अ॒भितः᳚ । वि॒॑र॒प्शम् ॥
सायणभाष्यम् (Sayana Commentary)
बृहस्पते येत्यादिके द्वे बार्हस्पत्ये पशौ वपापुरोडाशयोरनुवाक्ये । बृहस्पते या परमा परावदिति द्वे । आ. ३-७ । इति हि सूत्रितम् ॥
हे बृहस्पते या प्रसिद्धा परमोत्कृष्टा परावदत्यन्तं दूरभूता वसतिः स्वर्गाख्यास्ति । यद्वा लिङ्गव्यत्ययः । परमं स्थानमस्ति । अतोऽस्माद्देशादा । आ इत्यर्वागर्थे । अधस्तात्ते तव सम्बन्धिन ऋतस्पृशो यज्ञं स्पृशन्तोऽश्वानि षेदुः । निषण्णा भवन्ति । तुभ्यं खाता अवताः । लुप्तोपमैषा । यथा खाताः कूपा अभितः श्चोतन्ति तद्वदद्रिदुग्धा ग्रावभिरभिषुताः सोमा विरप्यं विशेषेण शब्देन स्तोत्रं यथा भवति तथा मध्वो मधुररसं श्चोतन्ति । स्रवन्ति ॥ ३ ॥