श्रवणम्

4.50.8 समानपद
स इत्क्षे᳚ति॒ सुधि᳚त॒ ओक᳚सि॒ स्वे तस्मा॒ इळा᳚ पिन्वते विश्व॒दानी᳚म् ।
तस्मै॒ विशः᳚ स्व॒यमे॒वा न᳚मन्ते॒ यस्मि᳚न्ब्र॒ह्मा राज᳚नि॒ पूर्व॒ एति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । इत् । क्षे॒ति॒ । सु॑धि᳚तः । ओक᳚सि । स्वे । तस्मै᳚ । इळा᳚ । पि॒न्व॒ते॒ । वि॒श्व॒॑दानी᳚म् ।
तस्मै᳚ । विशः᳚ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि᳚न् । ब्र॒ह्मा । राज᳚नि । पूर्वः᳚ । एति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत्स एव क्षेति । निवसति । सुधितह् सुष्ठु तृप्तः सन् स्वे स्वकीय एवौकसि सवने । स एव समृद्धो निर्बाधः सन् सुखेनास्ते । तस्मा इळा भूमिर्विश्वदानीं सर्वकालं पिन्वते । वर्धते फलैः । तस्मै विशः प्रजाः स्वयमेव नमन्ते । प्रणता भवन्ति । दण्डनमन्तरेण स्वयमेव दत्तकरा भवन्ति । यस्मिन्राजनि ब्रह्मा पूर्वः प्रथमः पूज्यः सन्नेति । गच्छति । वर्तत इत्यर्थः ॥ ८ ॥